दा इत्येतस्य यः तकारादिरादेशः तस्मिन् परतः इगन्तस्य उपसर्गस्य दीर्घो भवति। नीत्तम्। वीत्तम्। परीत्तम्। अच उपसर्गात् तः
७।४।४७ इत्यन्तस्य यद्यपि तकारः क्रियते तथापि चर्त्वस्याश्रयात् सिद्धत्वम् इति तकारादिर् भवति। इकः इत्येव, प्रत्तम्। अवत्तम्।
दः इति किम्? वितीर्णम्। नितीर्णम्।
ति इति किम्? सुदत्तम्।
"दा" इत्येतस्य यस्तकारादिरादेशः" इति। एतेन स्थान्यादेशसम्बन्धे "दः" इत्येषा षष्ठीति विज्ञायते। "वीत्तम्()" इति। ददातेर्निष्ठायां रूपम्()। ननु चत्र तकारादिरादेशः परो न सम्भवत्येव,
तथा हि--यस्तावत्? "अच उपसर्गात्तः"
७।४।४७ इति तकार सः "अलोन्त्यस्य"
१।१।५१ इति वचनादन्त्यस्य क्रियते, स च वर्णान्तरो व्यवधानादनन्तरस्तकारः परो न सम्भवति; योऽपि "खरि च"
८।४।५४ इति दकारसय तकारो विधीयते, सोऽपिन सम्भवत्येव; दीर्घत्वे कत्र्तव्ये चत्र्वस्यासिद्धत्वेनाविद्यमानत्वादित्यत आह--"अच उपसर्गात्तः" इत्यादि। आश्रयणमाश्रयः=अङ्गीकरणम्()। "दा" इत्यत्र यसतकारादिरादेशः,
तस्मिन्? परत इगन्तस्योपसर्गस्य दीर्घो भवतीति ब्राउवता चत्र्वमाश्रितम्(), न ह्रन्यथा तकारादिरादेशः परः सम्भवति।
तस्मात्? चत्र्वस्याश्रयणात्? सिद्धम्()। अतस्तकारादिरादेशो भवतीति। "नितीर्णम्()" इति।
"तृ? प्लवनतरणयोः" (दा।पा।
९६९) "ऋत इद्? धातोः"
७।१।१०० इतीत्त्वम्(), "हलि च"
८।२।७७ इति दीर्घः। "अट्कुप्वाङ्()"
८।४।२ इत्यादिना णत्वम्()। "सुदत्तम्()" इति। "दो दद्घोः"
७।४।४६ इत्यत्र--
"अवदत्तं विदत्तं च प्रादत्तं चादिकर्मणि।
सुदत्तमनुदत्तं च निदत्तमिति चेष्यते"॥
त्यनयेष्ट()आ ददातेर्ददादेश-॥
दस्ति। "इकः काशे" इत्यत इक इति, "उपसर्गस्य घञ्यमनुष्ये" इत्यत उपसर्गस्येति , "ढ्रलोपे" इत्यतो दीर्घ इति चानुवर्तते। उत्तरपदे इत्यधिकृतं तीत्यनेन विशेष्यते। तदादिविधिः। द इति षष्ठी ति इत्यत्रान्वेति। तथा च दाधातोरादेशो यस्तकारस्तदादौ उत्तरपदे इति लभ्यते। तदाह-- इगन्तत्यादि। ननु नि दात त इति स्थिते "अच उपसर्गात्तःर" इति दकारादाकास्य तकारे दकारस्य "खरि चे"ति चर्त्वे प्रकृतसूत्रेण उपसर्गस्य दीर्घे नीत्त्मिति रूपं वक्ष्यति, तदयुक्तम्, दीर्घे कर्तव्ये चत्त्र्वस्याऽसिद्धत्वे दादेशे तकाराद्युत्तरपदत्वाऽभावादित्यत आह-- चत्त्र्वमाश्रयात्सिद्धमिति। दादेशतकारमाश्रित्य विधियमाने दीर्घे चर्त्वं नाऽसिद्धं, चत्र्वसिद्धं तकारमाश्रित्य विधिबलादित्यर्थ-। सूत्तमिति तु चिन्त्यम्, "गतिश्चे"ति सूत्रभाष्यवार्तिकयोः सुदत्तमित्यत्र "अच उपसर्गात्तः" इति तत्वे कर्तव्ये सोरुपसर्गत्वं नेति प्रपञ्चितम्। अथ धेङ्गापाधुतभ्यः क्ते आह-- घुमास्थेति। धीतमिति। "दधातेर्हिः" इत्यत्र श्लुविकरणग्रहणान्न हिभावः।
दस्ति। "इकः काशे" इत्यत "इक" इति, "उपसर्गस्य घञी"त्यत उपसर्गस्येति, "ढ्रलोपे पूर्वस्ये"त्यतो दीर्घ इति चानुवर्तते। "अलुगुत्तरपदे" इत्यतोऽनुवृत्तस्योत्तरपदे इत्यस्य तीति विशेषणं। "यस्मिन्विधि"रिति तदादिविधिः, तदेतत्सकलमभिप्रेत्य व्याचष्टे-- इगन्तोपसर्गस्येत्यादिना। ननु चत्त्र्वस्याऽसिद्धत्वाद्दादेशतकारो नास्तीत्यत आह-- आश्रयात्सिद्धमिति। "अतो रो"रित्युत्वं प्रति रुत्ववदिति भावः। धीतमिति। "दधातेर्हि"रित्यत्र लुग्विकरणस्य निर्देशात् घेट् पान इति भ्वादेर्हिर्न भवति, नापि दत् "दो दद्धो"रिति द इत्युपादानादिति भावः।